SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३८ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शन २७. अन्यो वोद्धृत्याहरणात् । २८. तस्मिंस्तु संस्कारकर्म शिष्टत्वात् । २९. स्थानाद्वा परिलुप्येरन् । ३०. नित्यधारणे विकल्पो न शकस्मात् प्रतिषेधः स्यात् । ३१. नित्यधारणाद्वा प्रतिषेधो गतश्रियः । ३२. परार्थान्येको यजमानगणे। ३३. अनियमोऽविशेषात् । ३४. मुख्यो वा विप्रतिषेधात् । ३५. सत्रे गृहपतिसंयोगाद्धौत्रवत्। ३६. आम्नायवचनाच्च । ३७. सर्वैर्वा तदर्थत्वात् । ३८. गृहपतिरिति च समाख्यासामान्यात् । ३९. विप्रतिषेधे परम्। ४०. हौत्रे परार्थत्वात्। ४१. वचनं परम् । ४२. प्रभुत्वादात्विज्यं सर्ववर्णानां स्यात् । ४३. स्मृतेर्वा स्याद् ब्राह्मणानाम् । ४४. फलचमसविधानाच्चेतरेषाम् । ४५. सान्नाय्येप्येवं प्रतिषेधोऽसोमपीयहेतुत्वात् ४६. चतुर्धाकरणे च निर्देशात् । ४७. अन्वाहार्ये च दर्शनात् । ॥ इति द्वादशाध्यायस्य चतुर्थः पादः । ॥ सम्पूर्णश्च द्वादशोऽध्यायः॥ ॥मीमांसाशास्त्रञ्च सम्पूर्णम्॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy