________________
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
चतुर्थ: पादः
१. जपाश्चा कर्मयुक्ताः स्तुत्याशीरभिधानं च याजमानेसु समुच्चयः
स्यादाशीः पृथक्त्वात् ।
२. समुच्चयं च दर्शयति ।
३. याज्यानुवाक्यासु तु विकल्पः स्याद् देवतोपलक्षणार्थत्वात् ।
४. लिङ्गदर्शनाच्च ।
५. क्रयणेषु त्वविकल्पः स्यादेकार्थत्वात् ।
६. समुच्चयो वा प्रयोगद्रव्यसमवायात् । ७. समुच्चयं च दर्शयति ।
८. संस्कारे च तत्प्रधानत्वात् ।
९. संख्यासु तु विकल्पः स्यात् श्रुतिविप्रतिषेधात् ।
१०. द्रव्यविकारं तु पूर्ववदर्थकर्म स्यात् तथा विकल्पेन नियमः प्रधानत्वात् । ११. द्रव्यत्वेऽपि समुच्चयो द्रव्यकर्मनिष्पत्तेः प्रतिपशु कर्मभेदादेवं सति
यथाप्रकृति ।
१२. कपालेऽपि तथेति चेत् । १३. न कर्मणः परार्थत्वात् ।
१३७
१४. प्रतिपत्तिस्तु शेषत्वात् ।
१५. श्रुतेऽपि पूर्ववत्त्वात् स्यात् ।
१६. विकल्पोऽन्वर्थकर्मनियमप्रधानत्वात् शेषे च कर्मकार्य्यसमवायात्, तस्मात् तेनार्थकर्म स्यात् ।
१७. उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् ।
१८. असति चासंस्कृतेषु कर्म स्यात् ।
१९. तस्य च देवतार्थत्वात् । २०. विकारो वा तदुक्तहेतुः । २१. वचनादसंस्कृतेषु कर्म स्यात् । २२. संसर्गे चापि दोषः स्यात् । २३. वचनादिति चेत् । २४. तथेतरस्मिन् ।
२५. उत्सर्गेऽपि परिग्रहः कर्मणः कृतत्वात् ।
२६. स आहवनीयः स्यादाहुतिसंयोगात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org