________________
१३६
विभाग-१, षड्दर्शनसूत्रसंग्रहः मीमांसादर्शनम्
११. अभ्यस्येतार्थवत्त्वादिति चेत् । १२. न अश्रुतित्वात् ।
१३. सति चाभ्यासशास्त्रत्वात् । १४. विकल्पवच्च दर्शयति ।
१५. कालान्तरेऽर्थवत्त्वं स्यात् ।
१६. प्रायश्चित्तेषु चैकार्थ्यान्निष्यन्नेनाभिसंयोगः तस्मात् सर्वस्य निर्घातः । १७. समुच्चयस्त्वदोषनिर्घातार्थेषु ।
१८. मन्त्राणां कर्मसंयोगात् स्वधर्मेण प्रयोगः स्याद् धर्मस्य तन्निमित्तत्वात् । १९. विद्यां प्रति विधानाद्वा सर्वकालं प्रयोगः स्यात् कर्मार्थत्वात् प्रयोगस्य ।
२०. भाषास्वरोपदेशादैरवत्प्रायवचनप्रतिषेधः स्यात् ।
२१. मन्त्रोपदेशो वा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः ।
२२. विकारः कारणाग्रहणे ।
२३. तन्यायत्वाददृष्टेऽप्येवम् ।
२४. तदुत्पेत्तर्वा प्रवचनलक्षणत्वात् ।
२५. मन्त्राणां करणार्थत्वात् मन्त्रान्तेन कर्मादिसन्निपातः स्यात् सर्वस्य वचनार्थत्वात् ।
२६. सन्ततवचनाद्धारायामादिसंयोगः ।
२७. कर्मसन्तानो वा नानाकर्मत्वादितरस्याशक्यत्वात् ।
२८. आधारे च दीर्घाधारत्वात् ।
२९. मन्त्राणां सन्निपातित्वादेकार्थानां विकल्पः स्यात् । ३०. संख्याविहितेषु समुच्चयोऽसन्निपातित्वात् । ३१. ब्राह्मणविहितेषु च संख्यावत् सर्वेषामुपदिष्टत्वात् । ३२. याज्यावशट्कारयोश्च समुच्चयदर्शनं तद्वत् । ३३. विकल्पो वा समुच्चयस्याश्रुतित्वात् ।
३४. गुणार्थत्वादुपदेशस्य ।
३५. वषट्कारे नानार्थत्वात् समुच्चयः । ३६. हौत्रास्तु विकल्प्येरन्नेकार्थत्वात् । ३७. समुच्चयो वा क्रियमाणानुवादित्वात् । ३८. समुच्चयं च दर्शयति ।
Jain Education International
-
॥ इति द्वादशाध्यायस्य तृतीयः पादः ॥
www.jainelibrary.org