________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१३५
२०. स्याद्वा कालस्याशेषभूतत्वात् । २१. आरम्भविभागाच्च । २२. विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात् सधर्मत्वम् । २३. मुख्यं वा पूर्वचोदनाल्लोकवत् । २४. तथा चान्यार्थदर्शनम् । २५. अङ्गगुणविरोधे च तादात् । २६. परिधिद्वयर्थत्वादुभयधर्मा स्यात् । २७. यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् । २८. इतरो वा तस्य तत्र विधानात् । २९. उभयोश्चाङ्गसंयोगः। ३०. पशुसवनीयेषु विकल्पः स्यात् वैकृतश्चेदुभयोरश्रुतिभूतत्वात् । ३१. पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् । ३२. पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् । ३३. अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् । ३४. अधिकश्च गुणः साधारणेऽविरोधात् कांस्यभोजिवदमुख्येऽपि । ३५. तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तवाकेन । ३६. न वाऽविरोधात् । ३७. शास्त्रलक्षणत्वाच्च ।
॥इति द्वादशाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. विश्वजिति वत्सत्वङ्नामधेयादितरथातन्त्रभूयस्त्वादहतं स्यात् । २. अविरोधो वा उपरिवासो हि वत्सत्वक् । ३. अनुनिर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्यात् । ४. आगन्तुकत्वाद्वा स्वधर्मा स्यात् श्रुतिविशेषादितरस्य च मुख्यत्वात् । ५. स्वस्थानत्वाच्च । ६. स्विष्टकृच्छ्रपणान्नेति चेत् । ७. विकारः पवमानवत् । ८. अविकारो वा प्रकृतिवच्चोदनां प्रति भावाच्च । ९. एककर्मणि शिष्टत्वाद् गुणानां सर्वकर्म स्यात् । १०. एकार्थास्तु विकल्पेरन् समुच्चये ह्यावृत्तिः स्यात् प्रधानस्य ।
Jain Education International
POr Personar&PrhateUse Only
.
www.jainelibrary.org