________________
१३४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
४०. होतुस्तथेति चेत् । ४१. न कर्मसंयोगात्। ४२. यज्ञोत्पत्त्युपदेशे निष्ठितकर्मप्रयोगभेदात् प्रतितन्त्रं क्रियेत । ४३. न वा कृतत्वात् तदुपदेशो हि। ४४. देशपृथक्त्वात् मन्त्रोऽभ्यावर्त्तते । ४५. सन्नहनहरणे तथेति चेत् । ४६. न अन्यार्थत्वात् ।
॥ इति द्वादशाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः १. विहारो लौकिकानामर्थं साधयेत् प्रभुत्वात् । २. मांसपाकप्रतिषेधश्च तद्वत् । ३. निर्देशाद् वा वैदिकानां स्यात् । ४. सति चौपासनस्य दर्शनात् । ५. अभावदर्शनाच्च । ६. मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् । ७. वाक्यशेषो वा दक्षिणेऽस्मिन्नराभ्य विधानस्य । ८. सवनीये छिद्रापिधानार्थत्वात् पशुपुरोडाशो न स्यादन्येषामेवमर्थत्वात् । ९. क्रिया वा देवतार्थत्वात् । १०. लिङ्गदर्शनाच्च । ११. हविष्कृत्सवनीयेषु न स्यात् प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्
विद्यमानत्वात् । १२. पशौ तु संस्कृते विधानात् । १३. योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् । १४. निशि यज्ञे प्रकृतस्याप्रवृत्तिः स्यात् प्रत्यक्षशिष्टत्वात् । १५. कालवाक्यभेदाच्च तन्त्रभेदः स्यात् । १६. वेद्युद्धननव्रतं विप्रतिषेधात्तदेव स्यात् । १७. तन्त्रमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् । १८. वैगुण्यादिध्माबहिर्न साधयेदग्न्यन्वाधानं च यदि देवतार्थम् । १९. आरम्भणीया विकृतौ न स्यात् प्रकृतिकालमध्यत्वात् कृता
पुनस्तदर्थेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org