SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह: - मीमांसादर्शनम् ११. न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् । १२. शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् । १३. श्रपणं वाऽग्निहोत्रस्य शालामुखीये न स्यात्, प्राजहितस्य विद्यमान त्वात् । १४. हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् । १५. असिद्धिर्वाऽन्यदेशत्वात् प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् । १६. अनसाञ्च दर्शनात् । १७. तद्युक्तञ्च कालभेदात् । १८. मन्त्राश्च सन्निपातित्वात् । १९. धारणार्थत्वात् सोमेऽग्न्यन्वाधानं न विद्यते । २०. तथा व्रतमुपेतत्त्वात् । २१. विप्रतिषेधाच्च । २२. सत्यवदिति चेत् । २३. न संयोगपृथक्त्वात् । २४. ग्रहणार्थं च पूर्वमिष्टेस्तदर्थत्वात् । २५. शेषवदिति चेत् । २६. न वैश्वदेवो हि। २७. स्याद् वा व्यपदेशात् । २८. न गुणार्थत्वात्। २९. सनहनञ्च वृत्तत्वात् । ३०. अन्यविधानादारण्यभोजनं न स्यादुभयं वृत्त्यर्थम् । ३१. शेषभक्षास्तथेति चेत् । नः अन्यार्थत्वात् ३२. भृतत्वाच्च परिक्रयः । ३३. शेषभक्षास्तथेति चेत् । ३४. न कर्मसंयोगात् । ३५. प्रवृत्तवरणात् प्रतितन्त्रवरणात् प्रतितन्त्रवरणं होतुः क्रियेत । ३६. ब्रह्मापीति चेत् । ३७. न प्राक् नियमात्तदर्थं हि। ३८. निर्दिष्टस्येति चेत् । ३३९.न अश्रुतत्वात् । For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy