SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ४३. द्रव्यान्तरे कृतार्थत्वात् तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात् पुनः प्रयोग: स्यात्तदर्थेन विधानात् । ४४. निर्वपणलवनतरणाज्यग्रहणेषु चैकद्रव्यवत् प्रयोजनैकत्वात् । ४५. द्रव्यान्तरवद्वा स्यात् तत्संस्कारात् । ४६. वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् । ४७. एकस्य वा गुणविधिः द्रव्यैकत्वात् तस्मात् सकृत् प्रयोगः स्यात् । ४८. कण्डूयने प्रत्यङ्गं कर्मभेदात् स्यात् । ४९. अपि वा चोदनैककालमैव कर्म्यं स्यात् । १३२ ५०. स्वप्ननदीतरणाभिवर्षणामेध्यप्रतिमन्त्रणेषु चैवम् । ५१. प्रयाणे त्वार्थनिर्वृत्तेः । ५२. उपरवमन्त्रस्तन्त्रं स्याल्लोकवद् बहुवचनात् । ५३. न सन्निपातित्वात् असन्निपातिकर्मणां विशेषग्रहणे कालैकत्वात् सकृद्वचनम् । ५४. हविष्कृदध्रिगुपुरोऽनुवाक्यामनोतस्यावृत्तिः कालभेदात् स्यात् । ५५. अध्रिगोश्च विपर्यासात् । ५६. करिष्यद्वचनात् । ॥ इति एकादशाध्यायस्य चतुर्थः पादः समाप्तश्चैकादशोऽध्यायः ॥ अथ द्वादशोऽध्यायः प्रथमः पादः १. तन्त्रिसमवाये चोदनातः समानानामेकतन्त्रत्वमतुल्येषु तु भेदः विधिप्रक्रमतादर्थ्यात् तादर्थ्ये श्रुतिकालनिर्देशात् । २. गुणकालविकाराच्च तन्त्रभेदः स्यात् । ३. तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिः स्या- तन्त्रार्थस्याविशिष्टत्वात् । ४. विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् । ५. एकेषां चाशक्यत्वात् । ६. एकाग्निवच्च दर्शनम् । ७. जैमिनेः परतन्त्रत्वापत्तेः स्वतंत्र प्रतिषेधः स्यात् । ८. नानार्थत्वात् सोमे दर्शपूर्णमासप्रकृतीनां वेदिकर्म स्यात् । ९. अकर्म वा कृतदूषा स्यात् । १०. पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy