________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१५. सहत्वे नित्यानुवादः स्यात् । १६. द्वादशाहे तु प्रकृतित्वादेकैकमहरपवृज्येत कर्मपृथक्त्वात् । १७. अह्नां वा श्रुतिभूतत्वात् तत्र साङ्गं क्रियेत यथा माध्यन्दिने । १८. अपि वा फलकर्तृसम्बन्धात् सहप्रयोगः स्यादाग्नेयाग्नीषोमीयवत् । १९. साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् । २०. तदपेक्षं च द्वादशाहत्वम् । २१. दीक्षोपसदां च संख्या पृथक्पृथक् प्रत्यक्षसंयोगात् । २२. तथा चान्यार्थदर्शनम्। २३. चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् तेषां
प्रधानशब्दत्वात् । २४. भेदस्तु तद्भेदात् कर्मभेदः प्रयोगे स्यात् तेषां प्रधानशब्दत्वात् । २५. तथा चान्यार्थदर्शनम्। २६. श्वः सुत्यावचनं तद्वत् । २७. पश्वतिरेकश्च । २८. सुत्याविवृद्धौ सुब्रह्मण्याणां सर्वेषामुपलक्षणम् प्रकृत्यन्वयादावाहनवत् । २९. अपि वेन्द्राभिधानत्वात् सकृत् स्यादुपलक्षणम्, कालस्य लक्षणार्थत्वात्,
अविभागाच्च। ३०. पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात् तन्त्रभावः स्यात् । ३१. भेदस्तु सन्देहाद् देवतान्तरे स्यात् । ३२. अर्थाद्वा लिङ्गकर्म स्यात् । ३३. अयाज्यत्वाद्वसानां भेदः स्यात् स्वयाज्याप्रदानत्वात् । ३४. अपि वा प्रतिपत्तित्वात् तन्त्रं स्यात् स्वत्वस्याश्रुतिभूतत्वात् । ३५. सकृदिति चेत् । ३६. न कालभेदात् । ३७. जात्यन्तरेषु भेदः पंक्तिवैषम्यात् । ३८. वृद्धिदर्शनाच्च । ३९. कपालानि च कुम्भीवत्तुल्यसंख्यानाम् । 30. प्रतिप्रधानं वा प्रकृतिवत् । ११. सर्वेषां चाभिप्रथनं स्यात् । १२. एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org