SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३० विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ४४. अग्न्याधेये वा विप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तत्वात् । ४५. प्रतिपत्तिर्वा यथान्येषाम् । ४६. उपरिष्टात् सोमानां प्राजापत्यैश्चरन्तीति सर्वेषामविशेषादवाच्यो हि प्रकृतिकालः। ४७. अङ्गविपर्यासो विना वचनादिति चेत् । ४८. न उत्कर्षः संयोगात् कालमात्रमितरत्र । ४९. प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् । ५०. न श्रुतिप्रतिषेधात् । ५१. विकारस्थाने इति चेत् । ५२. न चोदनापृथक्त्वात् । ५३. उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद् यथा __निष्कर्षेऽनन्वयः । ५४. वाक्यसंयोगाद् वोत्कर्षः समानतन्त्रत्वादर्थलोपादनन्वयः । ॥इति एकादशध्यायस्य तृतीयः पादः ।। चतुर्थः पादः १. चोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि । २. प्रतिदक्षिणं वा कर्तृसम्बन्धदिष्टिवदङ्गभूतत्वात् समुदायो हि तन्निर्वृत्त्या तदेकत्वादेकशब्दोपदेशः स्यात् । ३. तथा चान्यार्थदर्शनम्। ४. अनियमः स्यादिति चेत् । ५. न उपदिष्टत्वात् । ६. लाघवातिपत्तिश्च । ७. प्रयोजनकत्वात् । ८. विशेषार्था पुनः श्रुतिः। ९. अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनात् । १०. वचनात् कामसंयोगेन । ११. क्रत्वयामिति चेन्न, वर्णसंयोगात् । १२. पवमानहविःष्वैकतन्त्र्यं प्रयोगवचनैकत्वात् । १३. लिङ्गदर्शनाच्च । १४. वर्तमानापदेशाद् वचनात्तु तन्त्रभेदः स्यात् । .. Jain Education International www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy