SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् १६. पशौ च पुरोडाशे समानतन्त्रं भवेत् । १७. अग्नियोगः सोमकाले तदर्थत्वात् संस्कृतकर्मणः परेषु साङ्गस्य तस्मात् सर्वापवर्गे विमोकः स्यात् । १८. प्रधानापवर्गे वा तदर्थत्वात् । १९. अवभृथे च तद्वत् प्रधानार्थस्य प्रतिषेधो ऽपवृक्तार्थत्वात् । २०. अहर्गणे च प्रत्यहं स्यात् तदर्थत्वात् । २१. सुब्रह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् २२. तत्कालत्वादावर्तेत प्रयोगवतो विशेषसंयोगात् । २३. अप्रयोगाङ्गमिति चेत् । २४. स्यात् प्रयोगनिर्देशात् कर्तृभेदवत् । २५. तद्भूतस्थानादग्निवदिति चेत्, तदपवर्गस्तदर्थत्वात् । २६. अग्निवदिति चेत् । २७. न प्रयोगसाधारण्यात् । २८. लिङ्गदर्शनाच्च । २९. तद्धि तथेति चेत् । ३०. न शिष्टत्वादितरन्यायत्वाच्च । ३१. विध्येकत्वादिति चेत् । ३२. न कृत्स्नस्य पुनः प्रयोगात् प्रधानवत् । ३३. लौकिकेषु यथाकामी संस्कारानर्थलोपात् स्यात् । ३४. यज्ञायुधानि धार्येरन् प्रतिपत्तिविधानाद्ऋजीषवत् । ३५. यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थत्वात् । ३६. मुख्यसाधारणं वा मरणस्यानियतत्वात् ३७. यो वा यजनीयेऽहनि म्रियते सोऽधिकृतः स्यादुपवेषवत् । ३८. न शास्त्रलक्षणत्वात् । ३९. उत्पत्तिर्वा प्रयोजकत्वादाशिरवत् । ४०. शब्दासामञ्जस्यमिति चेत् । ४१. तथाऽऽशिरे । ४२. शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रकृतावथेहापूर्वार्थवद् भूतोपदेशः । ४३. प्रकृत्यर्थत्वात् पौर्णमास्याः । Jain Education International १२९ For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy