SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२८ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ५७. अप्रकर्षो वाऽर्थहेतुत्वात् सहत्वं विधीयते । ५८. पूर्वस्मिश्चावभृथस्य दर्शनात् । ५९. दीक्षाणां चोत्तरस्य । ६०. समान: कालसामान्यात् । ६१. निष्कासस्यावभृथे तदेकदेशत्वात् पशुवत् प्रदानविप्रकर्षः स्यात् । ६२. अपनयो वा प्रतिषिद्धेनाभिसंयोगात् । ६३. प्रतिपत्तिरिति चेन्न, कर्मसंयोगात् । ६४. उदयनीये च तद्वत् । ६५. प्रतिपत्तिर्वा कर्मसंयोगात् । ६६. अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेनविधानात् । ॥ इति एकादशाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः १. अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् । २. द्रव्यस्याकर्मकालनिष्पत्तेः प्रयोगः सर्वार्थ: स्यात् स्वकालत्वात् । ३. यूपश्चाकर्मकालत्वात् । ४. एकयूपं च दर्शयति । ५. संस्कारास्त्वावर्तेरन्नर्थकालत्वात् । ६. तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात् सर्वार्थानां च वचनादन्यकालत्वम् । ७. सकृन्मानं च दर्शयति । ८. स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् । ९. साधारणे वाऽनुनिष्पत्तिस्तस्य साधारणत्वात् । १०. सोमान्ते च प्रतिपत्तिदर्शनात् । ११. तत्कालो वा प्रस्तरवत् । १२. न चोत्पत्तिवाक्यत्वात् प्रदेशात् प्रस्तरे तथा । १३. अहर्गणे विषाणाप्रासनं धर्मविप्रतिषेधादन्त्ये प्रथमे वाहनि विकल्पः स्यात् । १४. पाणेस्त्वश्रुतिभूतत्वाद्विषाणानियमः स्यात् प्रातः सवनमध्यत्वाच्छिष्टं चाभिप्रवृत्तत्वात् । १५. वाग्विसर्गो हविष्कृता बीजभेदे तथा स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy