SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् १२७ २८. अवभृथे प्रधानेऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः । २९. द्रव्यदेवतावत् । ३०. साङ्गो वा प्रयोगवचनैकत्वात् । ३१. लिङ्गदर्शनाच्च । ३२. शब्दविभागाच्च देवतानपनयः । ३३. दक्षिणेऽग्नौ वरुणप्रघासेषु देशभेदात् सर्वं क्रियते । ३४. अचोदनेति चेत् । ३५. स्यात्, पौर्णमासीवत् । ३६. प्रयोगचोदनेति चेत् । ३७. इहापि मारुत्याः प्रयोगश्चोद्यते । ३८. आसादनमिति चेत् । ३९. न उत्तरेणैकवाक्यत्वात् । ४०. अवाच्यत्वात् । ४१. आम्नायवचनं तद्वत् । ४२. कर्तृभेदस्तथेति चेत् । ४३. न समावायात् । ४४. लिङ्गदर्शनाच्च । ४५. वेदिसंयोगादिति चेत् । ४६. न देशमात्रत्वात् । ४७. एकाग्नित्वापरेषु तन्त्रैः स्यात् । ४८. नाना वा कर्तृभेदात् । ४९. पर्याग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामान्यादारण्य वत्तस्माद् ब्रह्मसाम्नि चोदनापृथक्त्वं स्यात् । ५०. संस्कारप्रतिषेधो वा वाक्यैकत्वे क्रतुसामान्यात् । ५१. वपानां चानभिधारणस्य दर्शनात् । ५२. पञ्चशारदीयास्तथेति चेत् । ५३. न चोदनैकवाक्यत्वात् । ५४. संस्काराणां च तद्दर्शनात् । ५५. दशपेये क्रयप्रतिकर्षात् प्रतिकर्षः, ततः प्राचां तत्समानं तन्त्रं स्यात् । ५६. समानवचनं तद्वत् । For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy