SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् द्वितीयः पादः १. एकदेशकालकर्तृत्वं मुख्यानामेकशब्दोपदेशात् । २. अविधिश्चेत् कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानं भावः स्यात् । १२६ ३. अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् । ४. यदि तु कर्मणो विधिसम्बन्धः स्यादेकशब्द्यात् प्रधानार्थाभिसंयोगात् । ५. तथा चान्यार्थदर्शनम् । ६. श्रुतिश्चैषां प्रधानवत् कर्मश्रुतेः परार्थत्वात् कर्मणोऽश्रुतित्वाच्च । ७. अङ्गानि तु विधानत्वात् प्रधानेनोपदिश्येरन् तस्मात् स्यादेकदेशत्वम् । ८. द्रव्यदेवतं तथेति चेत् । ९. न चोदनाविधिशेषत्वात् नियमार्थो विशेषः । १०. तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भेदात् कर्मभेदः प्रयोगे स्यात् तेषां प्रधानशब्दत्वात् तथा चान्यार्थदर्शनम् । ११. इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् । १२. कालभेदान्नेति चेत् । १३. न एकदेशत्वात् पशुवत् । १४. अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात् साङ्गानामुपदेशः स्यात् । १५. तथा चान्यार्थदर्शनम् । १६. तथा तदवयवेषु स्यात् । १७. पशौ तु चोदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् । १८. तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् । १९. इष्टिरिति चैकवच्छुतिः । २०. अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात् साङ्गानामुपदेशः स्यात् । २१. प्रथमस्य वा कालवचनम् । २२. फलैकत्वादिष्टिशब्दो यथान्यत्र । २३. वसाहोमस्तन्त्रम् ऐकदेवतेषु स्यात् प्रदानस्यैककालत्वात् । २४. कालभेदात्त्वावृत्तिर्देवताभेदे । २५. अन्ते यूपाहुतिस्तद्वत् । २६. इतरप्रतिषेधो वा २७. अशास्त्रत्वाच्च देशानाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy