________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१२५
४५ (क). तथा चान्यार्थदर्शनम् । ४५ (ख). प्रकृत्या च पूर्ववत् तदासत्तेः । ४६. उत्तरासु न यावत् स्वमपूर्वत्वात् । ४७. यावत् स्वं वान्याविधानेनानुवादः स्यात् । ४८. साकल्यविधानात् । ४९. बह्वर्थत्वाच्च । ५०. अग्निहोत्रे चाशेषवद्यवागूनियमः । ५१. तथा पयःप्रतिशेधः कुमाराणाम् । ५२. सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् । ५३. प्रधानकर्मार्थत्वादङ्गानां तद्भेदात् कर्मभेदः प्रयोगे स्यात् । ५४. क्रमकोपश्च यौगपद्ये स्यात् । ५५. तुल्यानां तु यौगपद्यमेकशब्दोपदेशात् स्याद्विशेषाग्रहणात् । ५६. ऐका•दव्यवायः स्यात् । ५७. तथा चान्यार्थदर्शनं कामुकायनः । ५८. तन्न्यायत्वादशक्तेरानुपूयं स्यात् संस्कारस्य तदर्थत्वात् । ५९. असंस्पृष्टोऽपि तादात् । ६०. विभवाद्वा प्रदीपवत् । ६१. अर्थात्तु लोके विधिः प्रतिप्रधानं स्यात् । ६२. सकृदिज्यां कामुकायनः परिमाणविरोधात् । ६३. विधेस्त्वितरार्थत्वात् सकृदिज्याश्रुतिव्यतिक्रमः स्यात् । ६४. विधिवत् प्रकरणाविभागे प्रयोगं बादरायणः । ६५. अपि चैकेन सन्निधानमविशेषको हेतुः। . ६६. न विधेश्चोदितत्वात् । ६७. व्याख्यातं तुल्यानां योगपद्यमगृह्यमाणविशेषाणाम्। ६८. भेदस्तु कालभेदाच्चोदनाव्यवायात् स्याद्विशिष्टानां विधिः
प्रदानकालत्वात् । ६९. तथा चान्यार्थदर्शनम्।। ७०. विधिरिति चेन्न वर्तमानापदेशात् ।
दशाध्यायस्य प्रथमः पादः ॥ For Personal & Private Use Only
Jain Education International
www.jainelibrary.org