SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२४ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् १८. क्रत्वन्तरेषु पुनर्वचनम् । १९. उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात् स्वदोहे यथाकामी प्रतीयेत । २०. कर्मण्यारम्भभाव्यत्वात् कृषिवत् प्रत्यारम्भं फलानि स्युः। २१. अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः । २२. सकृत्तु स्यात् कृतार्थत्वादङ्गवत् । २३. शब्दार्थश्च तथा लोके । २४. अपि वा सम्प्रयोगे यथा-कामी सम्प्रतीयेताश्रुतित्वाद्विधिषु वचनानि स्युः । २५. ऐकशब्द्यात् तथाङ्गेषु । २६. लोके कर्माऽर्थलक्षणम्। २७. क्रियाणामर्थशेषत्वात् प्रत्यक्षोऽतस्तनिर्वृत्त्याऽपवर्गः स्यात् । २८. धर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् । २९. क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् । ३०. सकृद्वा कारणैकत्वात् । ३१. परिमाणे चानियमे न स्यात् । ३२. फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात् फलान्यत्वम् । ३३. अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजन मेकस्मिन्नर्थस्यापरिमाणत्वात् प्रधाने च क्रियार्थत्वादनियमः स्यात् । ३४. पृथक्त्वाद्विधितः परिमाणं स्यात् ।। ३५. अनभ्यासो वा प्रयोगवचनैकत्वात् सर्वस्य युगपच्छास्त्रादफलत्वाच्च कर्मणः स्यात् क्रियार्थत्वात् । ३६. अभ्यासो वा छेदनसंमार्गाऽवदानेषु वचनात् सकृत्त्वस्य । ३७. अनभ्यासस्त वाच्यत्वात् । ३८. बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् । ३९. दृष्टः प्रयोग इति चेत् । ४०. तथेह। ४१. भक्त्येति चेत् । ४२. तथेतरस्मिन् । ४३. प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् । ४४. श्रुत्यर्थाविशेषात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy