________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
६६. उत्पत्तेस्तु निवेशः स्याद् गुणस्यानुपरोधेनार्थस्य विद्यमानत्वाद्
विधानादन्तरार्थस्य नैमित्तिकत्वात् तदभावेऽश्रुतौ स्यात् । ६७. उभयोस्तु विधानात् । ६८. गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् । ६९. अनपायश्च कालस्य लक्षणं हि पुरोडाशौ । ७०. प्रशंसार्थमजामित्वम्। ॥ इति दशमाध्यायस्य अष्टमः पादः, दशमोऽध्यायश्च ॥
अथैकादशोऽध्यायः
प्रथमः पादः १. प्रयोजनाभिसम्बन्धात् पृथक् सतां ततः स्यादैककर्म्यमेकशब्दाभि
संयोगात्। २. शेषवद्वा प्रयोजनं प्रतिकर्म विभज्येत । ३. अविधानात्तु नैवं स्यात् । ४. शेषस्य हि परार्थत्वाद्विधानात् प्रतिप्रधानभावः स्यात् । ५. अङ्गानां तु शब्दभेदात् क्रतुवत् स्यात् फलान्यत्वम् । ६. अर्थभेदस्तु तत्रार्थेहैकार्थ्यादैककर्म्यम् । ७. शब्दभेदान्नेति चेत् । ८. कर्मार्थत्वात् प्रयोगे ताच्छब्धं स्यात् तदर्थत्वात् । ९. कर्तृविधेर्नानार्थत्वाद् गुणप्रधानेषु । १०. आरम्भस्य शब्दपूर्वत्वात् ।। ११. एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषु प्राप्तेषु चोत्तरावत् स्यात् । १२. फलाभावान्नेति चेत् । १३. न कर्मसंयोगात् प्रयोजनमशब्ददोषं स्यात् । १४. ऐकशब्यादिति चेत् । १५. न अर्थपृथक्त्वात् समत्वादगुणत्वम् । १६. विधेस्त्वेकश्रुतित्वादपर्यायविधानाद् नित्यवच्छ्रुतभूताभिसंयोगात्
अर्थेन युगपत् प्राप्तेर्यथाप्राप्तं स्वशब्दार्थो निवीतवत्तस्मात् सर्वप्रयोग
प्रवृत्तिः स्यात् । १७. तथा कर्मोपदेशः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org