________________
१२२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३९. कर्तुः स्यादिति चेत् । ४०. न गुणार्थत्वात् प्राप्ते च नोपदेशार्थः । ४१. कर्मणोस्तु प्रकरणे तन्न्यायत्वाद् गुणानां लिङ्गेन कालशास्त्रं स्यात् । ४२. यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोऽस्ति विभक्तकाल
त्वात् । ४३. अपि वा विहितत्वाद् गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्
यथानभिप्रेतः तथाऽऽग्नेयो दर्शनादेकदेवते । ४४. विधिं तु बादरायणः। ४५. प्रतिषिद्धविज्ञानाद् वा। । ४६. तथा चान्यार्थदर्शनम् । ४७. उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद् यथाकामी प्रतीयेत । ४८. धौवाद् वा सर्वसंयोगात् । ४९. तद्वच्च देवतायां स्यात् । ५०. तान्त्रीणां वा प्रकरणात् । ५१. धर्माद्वा स्यात् प्रजापतिः। ५२. देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण । ५३. विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्यात् हौत्रस्य तत्र दर्शनात् । ५४. अपि वा पौर्णमास्यां स्यात् प्रधानशब्दसंयोगाद् गुणत्वान्मन्त्रो यथा प्रधानं
स्यात् । ५५. आनन्तर्य्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयति अमावास्याविकारे । ५६. अग्नीषोमविधानात्तु पौर्णमास्यामुभयत्र विधीयते । ५७. प्रतिषिद्ध्यविधानाद् वा विष्णुः समानदेशः स्यात् । ५८. तथा चान्यार्थदर्शनम्।। ५९. न चानङ्ग सकृच्छुतावुभयत्र विधीयेतासम्बन्धात् । ६०. गुणानां च परार्थत्वात् प्रकृतौ विधिलिङ्गानि दर्शयति । ६१. विकारे चाश्रुतित्वात् । ६२. द्विपुरोडाशायां स्यादन्तरार्थत्वात् । ६३. अजामिकरणार्थत्वाच्च । ६४. तदर्थमिति चेन्न, तत्प्रधानत्वात् । ६५. अशिष्टेन च सम्बन्धात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org