________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१२
१३. अक्रतुयुक्तानां वा धर्मः स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् । १४. तस्य वाप्यानुमानिकमविशेषात् । १५. अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् । १६. अविशेषेण यत् शास्त्रमन्याय्यत्वात् विकल्पस्य तत् सन्दिग्धमाराद्विशेषा
शिष्टां स्यात् । १७. अप्रकरणे तु यच्छास्त्रं विशेषे श्रूयमाणमविकृतमाज्यभागवत् ___प्राकृतप्रतिषेधार्थम्। १८. विकारे तु तदर्थं स्यात् । १९. वाक्यशेषो वा क्रतुना ग्रहणात् स्यादनारभ्यविधानस्य । २०. मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात् स्यात्। २१. अनाम्नाते च दर्शनात् । २२. प्रतिषेधाच्च । २३. अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् । २४. मासि ग्रहणञ्च तद्वत् । २५. ग्रहणं वा तुल्यत्वात् । २६. लिङ्गदर्शनाच्च । २७. ग्रहणं समानविधानं स्यात् । २८. मासिग्रहणमभ्यासप्रतिषेधार्थम् । २९. उत्पत्तितादर्थ्याच्चतुरवत्तम् प्रधानस्य होमसंयोगादधिकमाज्य
मतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् । ३०. तत्संस्कारश्रुतेश्च। ३१. ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विरभिधारणेन तदाप्तिवचनात् । ३२. तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् । ३३. साप्तदश्यवन्नियम्येत । ३४. हविषो वा गुणभूतत्वात् तथाभूतविवक्षा स्यात् । ३५. पुरोडाशाभ्यामित्याधिकृतानां पुराडाशयोरुपदेशस्तच्छुतित्वाद्वैष्य
स्तोमवत् । ३६. न त्वनित्याधिकारोऽस्ति विधौ नित्येन सम्बन्धस्तस्मादवाक्यशेषत्वम् । ३७. सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् । ३८. कृत्स्नत्वात्तु तथा स्तोमे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org