________________
१२०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
६०. न अर्थाभावात् । ६१. तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्प: स्यात् । ६२. यावच्छ्रुतीति चेत् । ६३. न प्रकृतावशब्दत्वात् । ६४. विकृतौ त्वनियमः स्यात् पृषदाज्यवद् ग्रहणस्य गुणार्थत्वात् उभयोश्च
प्रदिष्टत्वाद् गुणशास्त्रं यदेति स्यात् । ६५. ऐकार्थ्याद्वा नियम्येत श्रुतितो विशिष्टत्वात् ६६. विरोधित्वाच्च लोकवत् । ६७. क्रतोश्च तद्गुणत्वात् । ६८. विरोधिनाञ्च तच्छुतावशब्दत्वात् विकल्पः स्यात् । ६९. पृषदाज्ये समुच्चयाद् ग्रहणस्य गुणार्थत्वम् । ७०. यद्यपि चतुरवत्तीति तु नियमे नोपपद्यते । ७१. क्रत्वन्तरे वा तन्न्याय्यत्वात् कर्मभेदात् । ७२. यथाश्रुतीति चेत् । ७३. न चोदनैकत्वात् ।
॥इति दशमाध्यायस्य सप्तमः पादः ॥
अष्टमः पादः १. प्रतिषेधः प्रदेशेऽनारभ्यविधाने च, प्राप्तप्रतिषिद्धत्वाद् विकल्पः स्यात् । २. अर्थप्राप्तवदिति चेत् । ३. न तुल्यहेतुत्वादुभयं शब्दलक्षणम्। ४. अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः । ५. अपूर्वे चार्थवादः स्यात् । ६. शिष्ट्वा तु प्रतिषेधः स्यात् । ७. न चेदन्यं प्रकल्पयेत् प्रक्लृप्तावर्थवादः स्यादानर्थक्यापरसामर्थ्याच्च । ८. पूर्वैश्च तुल्यकालत्वात् । ९. उपवादश्च तद्वत् । १०. प्रतिषेधादकर्मेति चेत् । ११. न शब्दपूर्वत्वात् । १२. दीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात् सर्वदानहोमपाकप्रतिषेधः
स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org