SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ३२. तथा तद्ग्रहणे स्यात् । ३३. अपूर्वतां तु दर्शयेत् ग्रहणस्यार्थवत्त्वात् । ३४. ततोऽपि यावदुक्तं स्यात् । ३५. स्विष्टकृद्भक्षप्रतिषेधः स्यात् तुल्यकारणत्वात् । ३६. अप्रतिषेधो वा दर्शनादिडायां स्यात् । ३७. प्रतिषेधो वा विधिपूर्वस्य दर्शनात् । ३८. शंय्विडान्तत्वे विकल्पः स्यात् परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात् । ३९. नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् ४०. प्रतिषेधार्थवत्त्वात् चोत्तरस्य परस्तात् प्रतिषेधः स्यात् । ४१. प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् । ४२. प्रतिषेधस्य त्वरायुक्तत्वात् तस्य च नान्यदेशत्वम् । ४३. उपसत्सु यावदुक्तमकर्म स्यात् । ४४. स्त्रौवेण वा गुणत्वात् शेषप्रतिषेधः स्यात् ४५. अप्रतिषिद्धं वा प्रतिषिध्य प्रतिप्रसवात् । ४६. अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् । ४७. अवभृथे बर्हिषः प्रतिषेधात् शेषकर्म स्यात् । ४८. आज्याभागयोर्वा गुणत्वात् शेषप्रतिषेधः स्यात् । ४९. प्रयाजानां त्वेकदेशप्रति षेधात् वाक्यशेषत्वम् तस्मान्नित्यानुवादः स्यात् । ५०. आज्यभागयोर्ग्रहणं नित्यानुवादो गृहमेधीयवत् स्यात् । ५१. विरोधिनामेकश्रुतौ नियमः स्यात् ग्रहणस्यार्थवत्त्वात् शरवच्च श्रुतितो विशिष्टत्वात् । ५२. उभयप्रदेशान्नेति चेत् । ५३. शरेष्वपीति चेत् । ५४. विरोध्यग्रहणात्तथा शरेष्विति चेत् । १९९ ५५. तथेतरस्मिन् । ५६. श्रुत्यानर्थक्यमिति चेत् । ५७. ग्रहणस्यार्थवत्त्वादुभयोरप्रतिपत्तिः स्यात् । ५८. सर्वासाञ्च गुणानामर्थवत्त्वाद् ग्रहणमप्रवृत्ते स्यात् । ५९. अधिकं स्यादिति चेत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy