SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११८ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् '४. आज्यभागवद्वा निर्देशात् परिसङ्ख्या स्यात् । '५. तेषां वा व्यवदानत्वं विवक्षन्नभिनिदिशेत् पशोः पञ्चावदानत्वात् । '६. अंसशिरोनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्ख्यानेऽनर्थकः स्यात् प्रदानत्वात् तेषां निरवदानप्रतिषेधः स्यात् '७. अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् । '८. अब्राह्मणे च दर्शनात् । '९. शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वम् । १०. इज्याशेषात् स्विष्टकृदिज्येत प्रकृतिवत् । । ११. व्यङ्गैर्वा शरवद् विकारः स्यात् । १२. अध्यूनी तु होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् । १३. शेषे वा समवैति तस्माद्रथवनियमः स्यात् । १४. अशास्त्रत्वात्तु नैवं स्यात् । १५. अपि वा दानमात्रं स्याद् भक्षशब्दानभिसम्बन्धात् । १६. दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्टत्वात् । १७. आग्नीधश्च वनिष्टुरध्यूनीवत् । १८. अप्राकृतत्वान्मैत्रवरुणस्याभक्षत्वम् । १९. स्याद्वा होत्रध्वर्युविकारत्वात्तयोः कर्माभिसम्बन्धात् । २०. द्विभागः स्याद्विकर्मत्वाद् । २१. एकत्वाद् वैकभागः स्याद् भागस्याश्रुतिभूतत्वात् । २२. प्रतिप्रस्थातुश्च वपाश्रपणात् । २३. अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् । २४. विकृतौ प्राकृतस्य विधेर्ग्रहणात् पुनः श्रुतिरनर्थिका स्यात् । २५. अपि वाऽऽग्नेयवद् द्विशब्दत्वं स्यात् । २६. न वा शब्दपृथक्त्वात् ।। २७. अधिकं वार्थवत्त्वात् स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्य स्यादपूर्वत्वात् । २८. प्रतिषेधः स्यादिति चेत् । २९. न अश्रुतत्वात् । ३०. अग्रहणादिति चेत् । ३१. न तुल्यत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy