________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
११७
५८. अदक्षिणत्वाच्च । ५९. द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च
सत्रशब्दाभिसंयोगात्। ६०. यजतिचोदनादहीनत्वं स्वामिनां चाऽस्थितपरिमाणत्वात् । ६१. अहीने दक्षिणाशास्त्रं गुणत्वात् प्रत्यहं कर्मभेदः स्यात् । ६२. सर्वस्य वैककात् । ६३. पृषदाज्यवद्वाऽह्नां गुणशास्त्रं स्यात् । ६४. ज्योतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात् प्रकृतिवत्, तस्मान्नाऽऽसां
विकारः स्यात् । ६५. द्वादशाहे वचनात् प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात् परेषु तासां
संख्याविकारः स्यात् । ६६. परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् । ६७. भेदस्तु गुणसंयोगात्। ६८. प्रत्यहं सर्वसंस्कारः प्रकृतिवत् सर्वासां सर्वविशेषत्वात् । ६९. एकार्थत्वान्नेति चेत् । ७०. स्यादुत्पत्तौ कालभेदात् । ७१. विभज्य तु संस्कारवचनाद् द्वादशाहवत् । ७२. लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्यात् लिङ्गस्य सर्वगामित्वादाग्नेयवत् । ७३. यावदर्थं वाऽर्थशेषत्वादल्पेन परिमाणं स्यात् तस्मिंश्च लिङ्गसामर्थ्यम् । ७४. आग्नेय कृत्स्नविधिः। ७५. ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य स्यात् । ७६. वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् । ७७. तत्राहर्गणेऽर्थाद्वासः प्रकृतिः स्यात् । ७८. मानं प्रत्युत्पादयेत् प्रकृतौ तेन दर्शनादुपावहरणस्य । ७९. हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन ।
॥ इति दशमाध्यायस्य षष्ठः पादः ॥
सप्तमः पादः १. पशोरेकहविष्ट्वं समस्तचोदितत्वात् । २. प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्प्रकल्पनत्वात् । ३. हविर्भेदात् कर्मणोऽभ्यासस्तस्मात् तेभ्योऽवदानं स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org