SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११६ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् २९. अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् । ३०. अन्ते वा कृतकालत्वात् । ३१. आवृत्तिस्तु व्यवाये कालभेदात् स्यात् । ३२. मधु न दीक्षिता ब्रह्मचारित्वात् । ३३. प्राश्येते वा यज्ञार्थत्वात् । ३४. मानसमहरन्तरं स्याद् (द्वादशाहे ?) भेदव्यपदेशात् । ३५. तेन च संस्तवात् । ३६. अहरन्ताच्च परेण चोदना । ३७. पक्षे सङ्ख्या सहस्रवत् । ३८. अहरङ्गम् वांशुवच्चोदनाभावात् । ३९. दशमविसर्गवचनाच्च । ४०. दशमेऽहन्निति च तद्गुणशास्त्रात् । ४१. सङ्ख्यासामञ्जस्यात् । ४२. पश्वतिरेके चैकस्य भावात् । ४३. स्तुतिव्यपदेशमङ्गेन विप्रतिषिद्धं व्रतवत् ४४. वचनादतदन्तत्त्वम् । ४५. सत्रमेकः प्रकृतिवत् । ४६. वचनात्तु बहूनां स्यात् । ४७. अपदेशः स्यादिति चेत् । ४८. न एकव्यपदेशात् । ४९. सन्निवापञ्च दर्शयति । ५०. बहूनामिति चैकस्मिन् विशेषवचनं व्यर्थम् । ५१. अन्ये स्युर्ऋत्विजः प्रकृतिवत् । ५२. अपि वा यजमानां स्युर्ऋत्विजामभिधानसंयोगात् तेषां स्याद्यजमान त्वम् । ५३. कर्तृसंस्कारो वचनादाधातृवदिति चेत् । ५४. स्याद्विशये तन्न्यायत्वात् प्रकृतिवत् । ५५. स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् । ५६. नः प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण । ५७. दीक्षिताऽदीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्य-भावित्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy