SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रभाग - १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् षष्ठः पादः १. एकर्चस्थानानि यज्ञे स्युः स्वाध्यायवत् । २. तृचे वा लिङ्गदर्शनात् । ३. स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् । ४. पृष्ठ्यस्य युगपद्विधेरेकाहवत् द्विसामत्वम् । ५. विभक्ते वा समस्तविधानात् तद्विभागे विप्रतिषिद्धम् । ६. समासस्त्वैकादशिनेशु तत्प्रकृतित्वात् । ७. विहारप्रतिषेधाच्च । ८. श्रुतितो वा लोकवद्विभागः स्यात् । ९. विहारप्रकृतित्वाच्च । १०. विशये च तदासत्तेः । ११. त्रयस्तथेति चेत् । १२. न समत्वात् प्रयाजवत् । १३. सर्वपृष्ठे पृष्ठशब्दात्तेषां स्वादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् । १४. विधेस्तु विप्रकर्षः स्यात् । १५. वैरूपसामा क्रतुसंयोगात् त्रिवृद्वदेकसामा स्यात् । १६. पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् । १७. त्रिवृद्वदिति चेत् । १८. न प्रकृतावकृत्स्नसंयोगात् । १९. विधित्वान्नेति चेत् । २०. स्याद् विशये तन्यायत्वात् कर्माविभागात् । २१. प्रकृतेश्चाविकारात् । ११५ २२. त्रिवृति संङ्ख्यात्वेन सर्वसङ्ख्याविकारः स्यात् । २३. स्तोमस्य वा तल्लिङ्गत्वात् । १४. उभयसाम्नि विश्वजिद्वद्विभागः स्यात् । २५. पृष्ठार्थे वाऽतदर्थत्वात् । १६. लिङ्गदर्शनाच्च । २७. पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात् तदानन्तर्य्यात् प्रकृतिवत् । १८. अन्ते वा कृतकालत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy