SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११४ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ६०. मुख्येन वा नियम्येत । ६१. निमित्तविघाताद् वा क्रतुयुक्तस्य कर्म स्यात् । ६२. ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् । ६३. अपि वा धर्माविशेषात् तद्धर्माणां स्वस्थाने प्रकरणादग्रत्वमुच्यते । ६४. धारासंयोगाच्च। ६५. कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् । ६६. तद्देशानां वाऽग्रसंयोगात् तद्युक्तं कामशास्त्रं स्यात्, नित्यसंयोगात् । ६७. परेषु चाग्रशब्दः पूर्ववत् स्यात् तदादिषु । ६८. प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् । ६९. प्रतिकर्षञ्च दर्शयति । ७०. पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् । ७१. तुल्यधर्मत्वाच्च । ७२. तथा च लिङ्गदर्शनम् । ७३. सादनं चापि शेषत्वात् । ७४. लिङ्गदर्शनाच्च । ७५. प्रदानञ्चापि सादनवत् । ७६. न वा प्रधानत्वात् शेषत्वाद् सादनं तथा । ७७. त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् । ७८. अपि वाऽहर्गणेष्वग्निवत् समानविधानं स्यात् । ७९. द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत् समानविधानं स्यात् । ८०. व्यूढो वा लिङ्गदर्शनात् समूढविकारः । ८१. कामसंयोगात्। ८२. तस्योभयथा प्रवृत्तिरैककात् । ८३. एकादशिनवत् त्र्यनीका परिवृत्तिः स्यात् ८४. स्वस्थानविवृद्धिर्वाऽह्नामप्रत्यक्षसङ्ख्यत्वात् । ८५. पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात् त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायव स्यात् । ८६. वचनात् परिवृत्तिरैकादशिनेषु । ८७. लिङ्गदर्शनाच्च । ८८. छन्दो व्यतिक्रमाद् व्यूढे, भक्षपवमानपरिधिकपालस्य मन्त्राण यथोत्पत्तिवचन-मूहवत् स्यात् । ॥इति दशमाध्यायस्य पञ्चमः पादः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy