________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
११३
मात्।
३०. यावदुक्तं वा कृतपरिमाणत्वात् । ३१. अधिकानां च दर्शनात् । ३२. न कर्मस्वपीति चेत् । ३३. न चोदितत्वात् । ३४. षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् । ३५. प्रकृतौ चाभावदर्शनात् । ३६. अयज्ञवचनाच्च । ३७. प्रकृतौ वा शिष्टत्वात् । ३८. प्रकृतिदर्शनाच्च । ३९. आम्नातं परिसङ्ख्यार्थम् । ४०. उक्तमभावदर्शनम्। ४१. गुणादयज्ञत्वम्। ४२. तस्याग्रयणाद् ग्रहणम् । ४३. उक्थ्याच्च वचनात् । ४४. स तृतीयसवने वचनात् स्यात् । ४५. अनभ्यासे पराक् शब्दस्य तादात् । ४६. उक्थ्याविच्छेदवचनत्वात् । ४७. आग्रयणाद्वा पराक्शब्दस्य देशवाचित्वात् पुनराधेयवत् । ४८. विच्छेदः स्तोमसामान्यात् । ४९. उक्थ्याऽग्निष्टोमसंयोगादस्तुतशस्त्रः स्यात् सति हि संस्थान्यत्वम् । ५०. सस्तुतशस्त्रो वा तदङ्गत्वात् । ५१. लिङ्गदर्शनाच्च । ५२. वचनात् संस्थान्यत्वम् । ५३. अभावादतिरात्रेषु गृह्यते । ५४. अन्वयो वानारभ्य विधानात् । ५५. चतुर्थे चतुर्थेऽहन्यहीनस्य गृह्यते, इत्यभ्यासेन प्रतीयेत भोजनवत् । ५६. अपि वा सङ्ख्यावत्त्वात् नानाहीनेषु गृह्यते पक्षवदेकस्मिन्
संख्यार्थभावात्। ५७. भोजने तत्सङ्ख्यं स्यात् । ५८. जगत्साम्नि सामाभावाद् ऋक्तः साम तदाख्यं स्यात् । ५९. उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात् स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org