________________
११२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
पञ्चमः पादः १. आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् । २. लिङ्गदर्शनाच्च । ३. विकल्पो वा समत्वात् । ४. क्रमादुपजनोऽन्ते स्यात् । ५. लिङ्गमविशिष्टं सङ्ख्याया हि तद् वचनम् । ६. आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद् वचनादन्त्यविधिः स्यात् । ७. एकत्रिके तृचादिषु माध्यन्दिनेच्छन्दसां श्रुतिभूतत्वात् । ८. आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् । ९. यथानिवेशं च प्रकृतिवत् सङ्ख्यामात्रविकारत्वात् । १०. त्रिकं तृचेषु धुर्पा स्यात् । ११. एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् । १२. चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् । १३. प्राप्तिस्तु रात्रिशब्दसम्बन्धात् । १४. अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात् सर्वासामर्थवत्त्वात् । १५. स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूर-णमविकारात् सङ्ख्यायां
गुणशब्दत्वादन्यस्य चाश्रुतित्वात् । १६. आगमेन वाऽभ्यासस्याश्रुतित्वात् । १७. सङ्ख्यायाश्च पृथक्त्वनिवेशात् । १८. पराक्शब्दत्वात् । १९. उक्ताविकाराच्च । २०. अश्रुतित्वान्नेति चेत् । २१. स्यादर्थचोदितानां परिमाणशास्त्रम्। २२. आवापवचनं चाभ्यासे नोपपद्यते । २३. साम्नां चोत्पत्तिसामर्थ्यात् । २४. धुर्येष्वपीति चेत् । २५. न अवृतिधर्मत्वात् । २६. बहिष्पवमाने तु ऋगागमः सामैकत्वात् । २७. अभ्यासेन तु सङ्ख्यापूरणं, सामिधेनीष्वभ्यासप्रकृतित्वात् । २८. अविशेषात् नेति चेत् । २९. स्यात् तद्धर्मत्वात् प्रकृतिवदभ्यस्येताऽऽसङ्ख्यापूरणात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org