________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२९. द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्याद् । ३०. बुधन्वान् पवमानवद्विशेषनिर्देशात् । ३१. मन्त्रविशेषनिर्देशान्न देवताविकारः स्यात् । ३२. विधिनिगमभेदात् प्रकृतौ तत्प्रकृतित्वाद्विकृतावपि भेदः स्यात् । ३३. यथोक्तं वा विप्रतिपत्तेर्न चोदना । ३४. स्विष्टकृद् देवतान्यत्वे तच्छब्दत्वानिवर्तेत । ३५. संयोगे वाऽर्थापत्तेरभिधानस्य कर्मजत्वात् । ३६. सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् । ३७. सर्वस्य वैककात् । ३८. स्विष्टकृदावापिकोऽनुयाजे स्यात् प्रयोजनवद-ङ्गानामर्थसंयोगात् । ३९. अन्वाहेति च शस्त्रवत् कर्म स्यात् चोदनान्तरात् । ४०. संस्कारो वा चोदितस्य शब्दवचनार्थत्वात् । ४१. स्याद् गुणार्थत्वात्। ४२. मनोतायां तु वचनादविकारः स्यात् । ४३. पृष्ठार्थेऽन्यद्रथान्तरात् तद्योनिपूर्वत्वात् स्यादृचां प्रविभक्तत्वात् । ४४. स्वयोनौ वा सर्वाख्यत्वात् । ४५. यूपवदिति चेत् । ४६. न कर्मसंयोगात्। ४७. कार्यत्वादुत्तरयोर्यथाप्रकृति । ४८. समानदेवेते वा तृचस्याविभागात् । ४९. ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् । ५०. उभयपानात्पृषदाज्ये दध्नः स्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् । ५१. न वा परार्थत्वाद्यज्ञपतिवत् । ५२. स्याद्वा आवाहनस्य तादात् । ५३. न वा संस्कारशब्दत्वात् । ५४. स्याद्वा द्रव्याभिधानात् । ५५. दधनस्तुगुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् । ५६. दधि वा स्यात् प्रधानमाज्ये प्रथमान्त्यसंयोगात् । ५७. अपि वाज्यप्रधानत्वाद् गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् । ५८. अपि वाख्याविकारत्वात् तेन स्यादुपलक्षणम् । ५९. न वा स्याद् गुणशास्त्रत्वात् ।
॥इति दशमाध्यायस्य चतुर्थः पादः ॥
Jain Education International
For Personal & Privats Use Only
www.jainelibrary.org