SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् चतुर्थ: पादः १. प्रकृतिलिङ्गसंयोगात् कर्मसंस्कारं विकृतावधिकं स्यात् । २. चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् । ३. सर्वत्र तु ग्रहाम्नातमधिकं स्यात् प्रकृतिवत् । ४. अधिकैश्चैकवाक्यत्वात् । ५. लिङ्गदर्शनाच्च । ११० ६. प्राजापत्येषु चाम्नानात् । ७. आमने लिङ्गदर्शनाच्च । ८. उपगेषु शरवत् स्यात् प्रकृतिलिङ्गसंयोगात् । ९. आनर्थक्यात् त्वधिकं स्यात् । १०. संस्कारे चान्यसंयोगात् । ११. प्रयाजवदिति चेत् । १२. न अर्थान्यत्वात् । १३. आच्छादाने त्वैकार्थ्यात् प्राकृतस्य विकारः स्यात् । १४. अधिकं वान्यार्थत्वात् । १५. समुच्चयञ्च दर्शयति । १६. सामस्वर्थान्तर श्रुतेरविकारः प्रतीयेत । १७. अर्थे त्वश्रूयमाणे शेषत्वात् प्राकृतस्य विकारः स्यात् । १८. सर्वेषामविशेषात् । १९. एकस्य वा श्रुतिसामर्थ्यात् प्रकृतेश्चाविकारात् । २०. स्तोमविवृद्धौ त्वधिकं स्यादविवृद्धौ द्रव्यविकारः स्यादितरस्या श्रुतित्वाच्च । २१. पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् । २२. वचनानि त्वपूर्वत्वात् । २३. विधिशब्दस्य मन्त्रत्वे भावः स्यात् तेन चोदना । २४. शेषाणां चोदनैकत्वात्तस्मात् सर्वत्र श्रूयते । २५. तथोत्तरस्यां ततौ तत्प्रकृतित्वात् । २६. प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् । २७. अविकारो वाऽर्थशब्दानपायात् स्याद् द्रव्यवत् । २८. तथारम्भासमवायाद्वा चोदितेनाभिधानं स्यादर्थस्य त्वादवचने च गुणशास्त्रमनर्थकं स्यात् । Jain Education International For Personal & Private Use Only श्रुतिसमवायि www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy