________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१०९
५०. तस्य दानं विभागेन प्रदानानां पृथक्त्वात् ५१. परिक्रयाच्च लोकवत् । ५२. विभागं चापि दर्शयति । ५३. समं स्यादश्रुतत्वात् ।। ५४. अपि वा कर्मवैषम्यात् । ५५. अतुल्याः स्युः परिक्रय विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते __दर्शनाद्विशेषस्य तथाभ्युदये। ५६. तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात् सामान्यात् तद्विकारः स्याद्
यथेष्टिर्गुणशब्देन। ५७. सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां काय्र्यैकत्वादर्थे ___विकृतौ श्रुतिभूतं स्यात् तस्मात् समवायाद्धि कर्मभिः । ५८. चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् । ५९. एकां पञ्चेति धेनुवत् । ६०. त्रिवत्सश्च। ६१. तथा च लिङ्गदर्शनम् । ६२. एके तु श्रुतिभूतत्वात् सङ्ख्यया गवां लिङ्गविशेषेण । ६३. प्राकाशौ च तथेति चेत् । ६४. अपि त्ववयवार्थत्वात् विभक्तप्रकृतित्वात् गुणेदन्ताविकारः स्यात् । ६५. धेनुवच्चाश्वदक्षिणा, स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य । ६६. एके तु कर्तृसंयोगात् स्रग्वत्तस्य लिङ्गविशेषेण । ६७. अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् । ६८. तथा च सोमचमसः। ६९. सर्वविकारो वा क्रत्वर्थे प्रतिषेधात् पशूनाम् । ७०. ब्रह्मदानेऽविशिष्टमिति चेत् । ७१. उत्सर्गस्य क्रत्वर्थत्वात् प्रतिषिद्धस्य कर्म स्यात् न च गौणः प्रयोजनमर्थः
स दक्षिणानां स्यात्। ७२. यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् । ७३. सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् । ७४. यजुर्युक्तेऽध्वर्योदक्षिणा विकारः स्यात्। ७५. अपि वा श्रुतिभूतत्वात् सर्वासां तस्य भागो नियम्यते ।
॥ इति दशमाध्यायस्य तृतीयः पादः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org