________________
१०८
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२०. विधेस्तु तत्र भावात् सन्देहे यस्य शब्दस्तदर्थः स्यात् । २१. संस्कारसामर्थ्याद् गुणसंयोगाच्च ।
२२. विप्रतिषेधात् क्रियाप्रकरणे स्यात् ।
२३. षड्भिदीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् ।
२४. अभ्यासात् तु प्रधानस्य ।
२५. आवृत्त्या मन्त्रकर्म स्यात् ।
२६. अपि वा प्रतिमन्त्रत्वात् प्राकृतानामहानिः स्यादन्यायश्च कृतेऽभ्यासः
२७. पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् ।
२८. तत्पृथकत्वं च दर्शयति ।
२९. न चाविशेषाद्व्यपदेशः स्यात् ।
३०. अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् ।
३१. शिष्टत्वाच्चेतरासां यथास्थानम् । ३२. विकारस्त्वप्रकरणे हि काम्यानि ।
३३. शङ्कते च निवृत्तेरुभयत्वं हि श्रूयते ।
३४. वासो वत्सञ्च सामान्यात् ।
३५. अर्थापत्तेस्तद्धर्म्मा स्यान्निमित्ताख्याभिसंयोगात् ।
३६. दाने पाकोऽर्थलक्षणः ।
३७. पाकस्य चान्नकारित्त्वात् ।
३८. तथाभिधारणस्य ।
३९. द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात् स्यात् । ४०. समत्वात् तु गुणानामेकस्य श्रुतिसंयोगात् ।
४१. यस्य वा सन्निधाने स्याद् वाक्यतो ह्यभिसम्बन्धः ।
४२. असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् । ४३. असंयोगाद्विधिश्रुतादेकजाताधिकारः स्यात् श्रुत्याकोपात् क्रतोः । ४४. शब्दार्थश्चापि लोकवत् ।
४५. सा पशूनामुत्पत्तितो विभागात् ।
४६. अनियमो ऽविशेषात् ।
४७. भागित्वाद्वा गवां स्यात् । ४८. प्रत्ययात् ।
४९. लिङ्गदर्शनाच्च ।
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org