________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१०७
६९. नैमित्तिके तु कार्यत्वात् प्रकृतेः स्यात् तदापत्तेः । ७०. विप्रतिषेधे तद्वचनात् प्राकृतगुणलोपः स्यात्, तेन च कर्मसंयोगात् । ७१. परेषां प्रतिषेधः स्यात् । ७२. प्रतिषेधाच्च । ७३. अर्थाभावे संस्कारत्वं स्यात् । ७४. अर्थेन च विपर्यासे तादात् तत्त्वमेव स्यात् ।
॥इति दशमाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. विकृतौ शब्दवत्त्वात् प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् । २. प्रकृतिवत् तस्य चानुपरोधः । ३. चोदनाप्रभुत्वाच्च ।। ४. प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात् तस्य विध्युपलक्षणात् सर्वो हि
पूर्ववान् विधिरविशेषात् प्रवर्तितः । ५. न चाङ्गविधिरनङ्गे स्यात् । ६. कर्मणश्चैकशब्दद्यात् सन्निधाने विधेराख्यासंयोगो गुणेन तद्विकारः स्यात्
शब्दस्य विधिगामित्वात् गुणस्य चोपदेश्यत्वात् । ७. अकार्यत्वाच्च नाम्नः । ८. तुल्या च प्रभुता गुणे। ९. सर्वमेवं प्रधानमिति चेत् । १०. तथाभूतेन संयोगाद्यथार्थ विधयः स्युः। ११. विधित्वं चाविशिष्टमेवं प्राकृतानां वैकृतैः कर्मणा योगात् तस्मात् सर्वं
प्रधानार्थम्। १२. समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् । १३. हिरण्यगर्भे पूर्वस्य मन्त्रलिङ्गात् । १४. प्रकृत्यनुपरोधाच्च । १५. उत्तरस्य वा मन्त्रार्थित्वात् । १६. विध्यतिदेशात् तच्छ्रुतौ विकारः स्याद् गुणानामुपदेश्यत्वात् । १७. पूर्वस्मिंश्चामन्त्रत्वदर्शनात्। १८. संस्कारे तु क्रियान्तरं तस्य विधायकत्वात् । १९. प्रकृत्यनुपरोधाच्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org