________________
१०६
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३८. न दक्षिणाशब्दात् तस्मान्नित्यानुवादः स्यात्। ३९. उदवसानीयः सत्रधर्मा स्यात् तदङ्गत्वात्तत्र दानं धर्ममात्रं स्यात् । ४०. न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च । ४१. तेषां तु वचनाद् द्वियज्ञवत् सहप्रयोगः स्यात् । ४२. तत्रान्यानृत्विजो वृणीरन् । ४३. एकैकशस्त्वविप्रतिषेधात् प्रकृतेश्चैकसंयोगात् । ४४. कामेष्टौ च दानशब्दात् । ४५. वचनं वा सत्रत्वात् । ४६. द्वेष्ये चाचोदनाद्दक्षिणापनयः स्यात् । ४७. अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थिनाम् । ४८. यावदुक्तमुपयोगः स्यात् । ४९. यदि तु वचनात् तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात् । ५०. काम्यानि तु न विद्यन्ते कामाज्ञानाद् यथेतरस्यानूच्यमानानि । ५१. क्रत्वर्थं तु क्रियेत गुणभूतत्वात् । ५२. ईहार्थाश्चाभावात् सूक्तवाकवत् । ५३. स्युर्वा अर्थवादत्वात् । ५४. नेच्छाभिधानात् तदभावादितरस्मिन् । ५५. र्युर्वा होतृकामाः। ५६. न तदाशिष्टत्वात् । ५७. सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् । ५८. स्याद्वोभयोः प्रत्यक्षशिष्टत्वात् । ५९. गते कर्मास्थियज्ञवत् । ६०. जीवत्यवचनमायुराशिषस्तदर्थत्वात् । ६१. वचनं वा भागित्वात् प्राग् यथोक्तात् । ६२. क्रिया स्याद्धर्ममात्राणाम्। ६३. गुणलोपे च मुख्यस्य । ६४. मुष्टिलोपात् तु संख्यालोपस्तद्गुणत्वात् । ६५. न निर्वापशेषत्वात् । ६६. संख्या तु चोदनां प्रति सामान्यात् तद्विकारः संयोगाच्च परं मुष्टेः । ६७. न चोदनाभिसम्बन्धात् प्रकृतौ संस्कारसंयोगात् । ६८. औत्पत्तिके तु द्रव्यतो विकारः स्यादकार्यत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org