________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१०५
८. आप्तिः संख्यासमानत्वात् । ९. सतोस्त्वाप्तिवचनं व्यर्थम् । १०. विकल्पस्त्वेकावदानत्वात् । ११. सर्वविकारे त्वभ्यासानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः
स्यादितरस्यान्याय्यत्वात् । १२. अकर्म वा संसर्गार्थनिवृत्तित्वात् तस्मादाप्तिसमर्थत्वम् । १३. भक्षाणां तु प्रीत्यर्थत्वादकर्म स्यात् । १४. स्याद्वा निर्द्धनदर्शनात् । १५. वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् । १६. वचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात् । १७. एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ व्याहृतत्वात् । १८. सर्वत्वं च तेषामधिकारात् स्यात् । १९. पुरुषापनयो वा तेषामवाच्यत्वात् । २०. पुरुषापनयात् स्वकालत्वम् । २१. एकार्थत्वादविभागःस्यात् । २२. ऋत्विग्दानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् । २३. परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् । २४. दक्षिणायुक्तवचनाच्च । २५. न चाऽन्येनानम्येत परिक्रयात्, कर्मणः परार्थत्वात् । २६. परिक्रीतवचनाच्च । २७. सनिवन्येव भृतिवचनात् । २८. नैष्कर्तृकेण संस्तवाच्च । २९. शेषभक्षाश्च तद्वत् । ३०. संस्कारो वा द्रव्यस्य परार्थत्वात् । ३१. शेषे च समत्वात्।। ३२. स्वामिनि च दर्शनात् तत्सामान्यादितरेषां तथात्वम् । ३३. तथा चान्यार्थदर्शनम् । ३४. वरणमृत्विजामानमनार्थत्वात् सत्रे न स्यात् स्वकर्मत्वात् । ३५. परिक्रयश्च तादात् । ३६. प्रतिषेधश्च कर्मवत् । ३७. स्याद्वा प्रासार्पिकस्य धर्ममात्रत्वात् । Private Use Only
www.jainelibrary.org