SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०४ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ३९. गुणमुख्यविशेषाच्च । ४०. तच्छ्रुतौ चान्यहविष्ठवात् । ४१. लिङ्गदर्शनाच्च। ४२. ओदनो वा प्रयुक्तत्वात् । ४३. अपूर्वव्यपदेशाच्च । ४४. तथा च लिङ्गदर्शनम् । ४५. स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् । ४६. एकस्मिन् वा विप्रतिषेधात् ।। ४७. न वाऽर्थान्तरसंयोगादपूपे, पाकसंयुक्तं धारणार्थं चरौ भवति, तत्रार्थात् पात्रलाभः स्यादनियमोऽविशेषात् । ४८. चरौ वा लिङ्गदर्शनात् । ४९. तस्मिन् पेषणमर्थलोपात् स्यात् । ५०. अक्रिया वा अपूपहेतुत्वात् । ५१. पिण्डार्थत्वाच्च संयवनम् । ५२. संवपनञ्च तादर्थ्यात् । ५३. सन्तापनमध:श्रपणार्थत्वात् । ५४. उपधानं च तादात् । ५५. पृथुश्लक्ष्णे वाऽनपूपत्वात् । ५६. अभ्यूहश्चोपरिपाकार्थत्वात् । ५७. तथाऽज्वलनम् । ५८. व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् । ॥ इति दशमाध्ययस्य प्रथमः पादः ॥ द्वितीयः पादः १. कृष्णलेष्वर्थलोपादपाकः स्यात् । २. स्याद्वा प्रत्यक्षशिष्टत्वात् प्रदानवद् । ३. उपस्तरणाभिधारणयोरमृतार्थत्वादकर्म स्यात् । ४. क्रियेत वाऽर्थवादत्वात्तयोः संसर्गहेतुत्वात् । ५. अकर्म वा चतुर्भिराप्तिवचनात् सह पूर्णं पुनश्चतुरवत्तम् । ६. क्रिया वा मुख्यावदानपरिमाणात् सामान्यात् तद्गुणत्वम् । ७. तेषां चैकावदानत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy