SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ११. अपि वा शेषभूतत्वात् तत्संस्कारः प्रतीयेत । १२. समाख्यानं च तद्वत् । १३. मन्त्रवर्णश्च तद्वत् । १४. प्रयाजे च तन्न्यायत्वात् । १५. लिङ्गदर्शनाच्च । १६. तथाज्यभागाग्निरपीति चेत् । १७. व्यपदेशाद् देवतान्तरम् । १८. समत्वाच्च । १९. पशावपीति चेत् । २०. न तद्भूतवचनात् । २१. लिङ्गदर्शनाच्च । २२. गुणो वा स्यात् कपालवद् गुणभूतविकाराच्च । २३. अपि वा शेषभूतत्वात्संस्कार: प्रतीयेत, स्वाहाकारवदङ्गानामर्थसंयोगात् । २४. वृद्धवचनं च विप्रतिपत्तौ तदर्थत्वात् । २५. गुणेऽपीति चेत् । २६. नासंहानात् कपालवत् । २७. ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्थत्वात् । २८. ग्रहाभावे च तद्वचनम् । २९. देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति । ३०. अविरुद्धोपपत्तिरर्थापत्तेः श्रुतवत् गुणभूतविकारः स्यात् । १०३ ३१. स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्वमुक्तं तस्यार्थवादत्वम् । ३२. विप्रतिपत्तौ तासामाख्याविकारः स्यात् । ३३. अभ्यासो वा प्रयाजवदेकदेशो ऽन्यदेवत्यः । ३४. चरुर्हविर्विकारः स्यादिज्यासंयोगात् । ३५. प्रसिद्धग्रहणत्वाच्च । ३६. ओदनो वाऽन्नसंयोगात् । ३७. न द्व्यर्थत्वात् । ३८. कपालविकारो वा विषयेऽर्थोपपत्तिभ्याम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy