________________
१०२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
४५. श्रयणानां तत्पूर्वत्वात्प्रदानार्थे विधानं स्यात् । ४६. गुणो वा श्रपणार्थत्वात् । ४७. अनिर्देशाच्च । ४८. श्रुतेश्च तत्प्रधानत्वात् । ४९. अर्थवादश्च तदर्थवत् । ५०. संस्कारं प्रति भावाच्च तस्मादथ प्रधानं स्यात् । ५१. पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत्। ५२. शेषप्रतिषेधो वाऽर्थाभावादिडान्तवत् । ५३. पूववत्त्वाच्च शब्दस्य संस्थापयतीति चाप्रवृत्ते नोपपद्यते । ५४. प्रवृत्तेर्यज्ञहेतुत्वात् प्रतिषेधे संस्काराणामकर्म स्यात् तत्कारितत्वाद् यथा
प्रयाजप्रतिषेधे ग्रहणमाज्यस्य । ५५. क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् । ५६. आज्यसंस्थाने प्रतिनिधिः स्यात् द्रव्योत्सर्गात् । ५७. समाप्तिवचनात् । ५८. चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् । ५९. अनिज्यां च वनस्पतेः प्रसिद्धां तेन दर्शयति । ६०. संख्या तद्देवतात्वात् स्यात् ।
॥ इति नवमाध्यायस्य चतुर्थः पादः नवमोऽध्यायश्च ॥
अथ दशमोऽध्यायः
प्रथमः पादः १. विधेः प्रकरणान्तरेऽतिदेशात् सर्वकर्म स्यात् । २. अपि वाऽभिधानसंस्कारद्रव्यमर्थे क्रियते तादर्थ्यात् । ३. तेषामप्रत्यक्षविशिष्टत्वात् । ४. इष्टिरारम्भसंयोगादङ्गभूतान्निवर्तेतारम्भस्य प्रधानसंयोगात्।। ५. प्रधानाच्चान्यसंयुक्तात् सर्वारम्भान्निवर्तेतानङ्गत्वात् । ६. तस्यां तु स्यात् प्रयाजवत् । ७. न वाङ्गभूतत्वात् । ८. एकवाक्यत्वाच्च । ९. कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् । १०. स्थाणौ तु देशमात्रत्वादनिवृत्तिः प्रतीयेत । ..
www.jainelibrary.org