SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः मीमांसादर्शनम् १५. अभ्यासो वाऽविकारात् स्यात् । १६. पशुस्त्वेवं प्रधानं स्यादभ्यासस्य तन्निमित्तत्वात् तस्मात्समासशब्दः स्यात् । १७. अश्वस्य चतुस्त्रिंशत् तस्य वचनाद् वैशेषिकम् । १८. तत् प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् । १९. ऋग्वा स्यादाम्नातत्वादविकल्पश्च न्याय्यः । २०. तस्यां तु वचनादैरवत् पदविकारः स्यात् । २१. सर्वप्रतिषेधो वाऽसंयोगात् पदेन स्यात् । २२. वनिष्ठुसन्निधानादुरुकेण वपाभिधानम् । २३. प्रशंसाऽस्यभिधानम् । - २४. बाहुप्रशंसा वा । २५. श्येनशलाकश्यपकवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् । २६. कात्र्यं वा स्यात्तथाभावात् । २७. अध्रिगोश्च तदर्थत्वात् । २८. प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात्तदर्थे हि विधीयते । २९. धारणे च परार्थत्वात् । ३०. क्रियार्थत्वादितरेषु कर्म स्यात् । ३१. न तूत्पन्ने यस्य चोदनाऽप्राप्तकालत्वात् । ३२. प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात् संसर्गाच्च मधूदकवत् । ३३. संस्कारप्रतिषेधश्च तद्वत् । ३४. तत्प्रतिषेधे च तथाभूतस्य वर्जनात् । ३५. अधर्मत्वमप्रदानात् प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः । ३६. परो नित्यानुवादः स्यात् । ३७. विहितप्रतिषेधो वा । ३८. वर्जने गुणभावित्वात् तदुक्तप्रतिषेधात् स्यात् कारणात् केवलाशनम् । ३९. व्रतधर्माच्च लेपवत् । ४०. रसप्रतिषेधो वा पुरुषधर्मत्वात् । ४१. अभ्युदये दोहापनयः सधर्मा स्यात् प्रवृत्तत्वात् । ४२. शृतोपदेशाच्च । ४३. अपनयो वार्थान्तरे विमानाच्चरुपयोवत् ४४. लक्षणार्था भृतश्रुतिः । Jain Education International १०१ For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy