________________
१००
विभाग-१, षडदर्शनसत्रसंग्रहः - मीमांसादर्शनम
३३. अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् । ३४. स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पन्यां द्वितीयशब्दः स्यात् । ३५. देवता तु तदाशीष्ट्वान् सम्प्राप्तत्वात् स्वामिन्यनर्थिका स्यात् । ३६. उत्सर्गाच्च भक्त्या तस्मिन् पतित्वं स्यात् । ३७. उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् । ३८. एकस्तु समवायात् तस्य तल्लक्षणत्वात् । ३९. संसर्गित्वाच्च तस्मात् तेन विकल्पः स्यात् । ४०. एकत्वेऽपि गुणानपायात् । ४१. नियमो वा बहुदेवते विकारः स्यात् । ४२. विकल्पो वा प्रकृतिवत् । ४३. अर्थान्तरे विकारः स्याद् देवतापृथक्त्वादेकाभिसमवायात् स्यात् ।
॥ इति नवमाध्यायस्य तृतीयः पादः ।
चतुर्थः पादः १. षड्विंशतिरभ्यासेन पशुगणे, तत्प्रकृतित्वाद् गुणस्य, प्रविभक्तत्वा
दविकारो हि तासामकात्स्न्ये नाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः । २. अभ्यासेऽपि तथेति चेत् । ३. न गुणादर्थकृतत्वाच्च । ४. समासेऽपि तथेति चेत् । ५. न असम्भवात्। ६. स्वाभिश्च वचनं प्रकृत्तौ तथेह स्यात् । ७. वज़ीणा तु प्रधानत्वात् समासेनाभिधानं स्यात् प्राधान्यमध्रिगोस्तदर्थ
त्वात् । ८. तासां च कृत्स्त्रवचनात् । ९. अपि त्वसन्निपातित्वात् पत्नीवदाम्नातेनाभिधानं स्यात् । १०. विकारस्तु प्रदेशत्वाद्यजमानवत् । ११. अपूर्वत्वात्तथा पत्ल्याम् । १२. आम्नातस्त्वविकारात् सङ्ख्यासु सर्वगामित्वात् ।
१४. अनाम्नातवचनमवचनेन हि वङ्क्रीनां स्यानिर्देशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org