________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
५. लिङ्गदर्शनाच्च । ६. विकारो वा तदुक्तहेतुः । ७. लिङ्गं मन्त्रचिकीर्षार्थम्। ८. नियमो वोभयभागित्वात् । ९. लौकिके दोषसंयोगादपवृक्ते हि चोद्यते, निमित्तेन प्रकृतौ स्यादभागि
त्वात् । १०. अन्यायस्त्वविकारेणादृष्टप्रतिघातित्वादविशेषाच्च तेनास्य । ११. विकारो वा तदर्थत्वात् । १२. अपि त्वन्यायसम्बन्धात् प्रकृतिवत् परेष्वपि यथार्थं स्यात् । १३. यथार्थं त्वन्यायस्याचोदितत्वात् । १४. छन्दसि तु यथादृष्टम्। १५. विप्रतिपत्तौ विकल्पः स्यात् समत्वाद्, गुणे त्वन्यायकल्पनैकदेशत्वात् । १६. प्रकरणविशेषाच्च । १७. अर्थाभावात्तु नैवं स्याद् गुणमात्रमितरत् १८. द्यावोस्तथेति चेत् । १९. न उत्पत्तिशब्दत्वात् । २०. अपूर्वे त्वविकारोऽप्रदेशात् प्रतीयेत । २१. विकृतौ चापि तद्वचनात् । २२. अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् । २३. प्रतिनिधौ चाविकारात् । २४. अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् । २५. तादाद्वा तदाख्यं स्यात् संस्कारैरविशिष्टत्वात् । २६. उक्तञ्च तत्त्वमस्य । २७. संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् । २८. लिङ्गदर्शनाच्च । २९. एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् । ३०. अविकारो वा बहूनामेककर्मवत् । ३१. सकृ त्त्वं त्वैकध्यं स्यादेकत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात् ___परेष्वभ्यासेनैवं विवृद्धावभिधानं स्यात् । ३२. मेधपतित्वं स्वामिदेवतस्य समवायात् सर्वत्र च प्रयुक्तत्वात्तस्यान्याय
निगदत्वात् सर्वत्रैवाविकारः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org