SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९८ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ३९. अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् । ४०. धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्ध समवायात् । ४१. तदुत्पत्तेस्तु निवृत्तिस्तत्कृतत्वात् स्यात् । ४२. आवेश्येरन्वार्थवत्वात्संस्कारस्य तदर्थत्वात् । ४३. आख्या चैवं तदावेशाद् विकृतौ स्याद्पूर्वत्वात् । ४४. परार्थे न त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् । ४५. क्रियेरन् वार्थनिर्वृत्तेः । ४६. एकार्थत्वादविभागः स्यात् । ४७. निर्देशाद्वा व्यवतिष्ठेरन् । ४८. अप्राकृते तद्विकाराद्विरोधाद् व्यवतिष्ठेरन् । ४९. उभयसाम्नि चैवमेकार्थापत्तेः । ५०. स्वार्थत्वाद्वा व्यवस्था स्यात् प्रकृतिवत् । ५१. पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगात्तदभीज्या हि । ५२. कालस्येति चेत् । ५३. न अप्रकरणत्वात् । ५४. मन्त्रवर्णाच्च । ५५. तदभावेऽग्निवदिति चेत् । ५६. न आधिकारिकत्वात् । ५७. उभयोरविशेषात् । ५८. यदभीज्या वा तद्विषयौ । ५९. प्रयाजेऽपीति चेत् । ६०. न अचोदितत्वात् । ॥ इति नवमाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः १९. प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्कृतित्वादर्थे चाकार्यत्वात् । २. लिङ्गदर्शनाच्च । ३. जातिर्नैमित्तिकं यथास्थानम् । ४. अविकारमेकेऽनार्षत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy