SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह: - मीमांसादर्शनम् ९७ १०. अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत ११. आश्रितत्वाच्च । १२. प्रयुज्यत इति चेत् । १३. ग्रहणार्थं प्रयुज्यते। १४. तृचे स्यात् श्रुतिनिर्देशात् । १५. शब्दार्थत्वाद्विकारस्य। १६. दर्शयति च। १७. वाक्यानां तु विभक्तत्वात् प्रतिशब्दं समाप्तिः स्यात्, संस्कारस्य तदर्थत्वात् । १८. तथा चान्यार्थदर्शनम्। १९. अनवानोपदेशश्च तद्वत् । २०. अभ्यासेनेतरा श्रुतिः। २१. तदभ्यासः समासः स्यात् । २२. लिङ्गदर्शनाच्च । २३. नैमित्तिकं तूत्तरात्वमानन्तर्यात् प्रतीयेत । २४. ऐकार्थ्याच्च तदभ्यासः । २५. प्रागाथिकं तु । २६. स्वे च । २७. प्रगाथे च। . २८. लिङ्गदर्शनाव्यतिरेकाच्च । २९. अर्थैकत्वाद् विकल्पः स्यात् । ३०. अर्थैकत्वाद्विकल्पः स्याद्, ऋक्सामयोस्तदर्थत्वात् । ३१. वचनाद्विनियोगः स्यात् । ३२. सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृतत्वात् । ३३. वर्णे तु बादरिर्यथाद्रव्यं द्रव्यव्यतिरेकात् ३४. स्तोभस्यैके द्रव्यान्तरे निवृतिमृग्वत् । ३५. सर्वातिदेशस्तु सामान्याल्लोकवद्विकारः स्यात् । ३६. अन्वयञ्चापि दर्शयति । ३७. निवृत्तिर्वाऽर्थलोपात् । ३८. अन्वयो वार्थवादः स्यात् । Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy