SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ४०. चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् । ४१. विकारस्तत्प्रधाने स्यात् । ४२. असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत । ४३. कर्माभावादेवमिति चेत् । ४४. न परार्थत्वात्। ४५. लिङ्गविशेषनिर्देशात् समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् । ४६. पभिधानाद्वा, द्धि चोदनाभूत पुंविषयं, पुनः पशुत्वम् । . ४७. विशेषो वा तदर्थनिर्देशात् । ४८. पशुत्वं चैकशब्द्यात् । ४९. यथोक्तं वा सन्निधानात् । ५०. आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् । ५१. द्वैधं वा तुल्यहेतुत्वात् सामान्याद्विकल्पः स्यात् । ५२. उपदेशाच्च साम्नः । ५३. नियमो वा श्रुतिविशेषादितरत् साप्तदश्यवत् । ५४. अप्रमाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् । ५५. यत्स्थाने वा तद्गीतिः स्यात् पदान्यत्वप्रधानत्वात् । ५६. गानसंयोगाच्च। ५७. वचनमिति चेत् । ५८. न तत्प्रधानत्वात् । ॥ इति नवमाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः १. सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् । २. तदुक्तदोषम्। ३. कर्म वा विधिलक्षणम्। ४. तादृग्द्रव्यं वचनात् पाकयज्ञवत् । ५. तत्राविप्रतिषिद्धो द्रव्यान्तरे व्यतिरेकः प्रदेशश्च । ६. शब्दार्थत्वात्तु नैवं स्यात् । ७. परार्थत्वाच्च शब्दानाम् । ८. असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् । ९. संस्कारश्चाप्रकरणेऽग्निवत् स्यात् प्रयुक्तत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy