________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१२. अर्थकारिते च द्रव्येण न व्यवस्था स्यात् । १३. अर्थो वा स्यात्प्रयोजनमितिरेषामचोदनात्तस्य च गुणभूतत्वात् । १४. अपूर्वत्वाद्व्यवस्था स्यात् । १५. तत्प्रयुक्तत्वं च धर्मस्य सर्वविषयत्वम् । १६. तद्युक्तस्येति चेत् । १७. न अश्रुतित्वात् । १८. अधिकारादिति चेत् । १९. तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः, पृथक् सतां यज्ञार्थेनाभि
सम्बन्धस्तस्माद्यज्ञप्रयोजनम्। २०. देशबद्धमुपांशुत्वं तेषां स्यात् श्रुतिनिर्देशात्तस्य च तत्र भावात् । २१. यज्ञस्य वा तत्संयोगात् । २२. अनुवादश्च तदर्थवत् । २३. प्रणीतादि तथेति चेत् । २४. न यज्ञस्याश्रुतित्वात् । २५. तद्देशानां वा सङ्घातस्याचोदितत्वात् । २६. अग्निधर्मः प्रतीष्टकं सङ्घातात्पौर्णमासीवत् । २७. अग्नेर्वा स्याद् द्रव्यैकत्वादितरासां तदर्थत्वात् । २८. चोदनासमुदायात्तु पौर्णमास्यां तथा स्यात् । २९. पत्नीसंयाजान्तत्त्वं सर्वेषामविशेषात् । ३०. लिङ्गाद्वा प्रागुत्तमात्। ३१. अनुवादो वा दीक्षा यथा नक्तं संस्थापनस्य । ३२. स्याद्वाऽनारभ्य विधानादन्ते लिङ्गविरोधात् । ३३. अभ्यासः सामिधेनीनां प्राथम्यात् स्थानधर्मः स्यात् । ३४. इष्ट्यावृत्तौ प्रयाजवदावर्तेतारम्भणीया। ३५. सकृद्वाऽऽरम्भसंयोगात् एकः, पुनरारम्भो यावज्जीवप्रयोगात् । ३६. अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तम्
चोदिताभिधानात्। ३७. ततश्चावचनं तेषामितरार्थं प्रयुज्यते । ३८. गुणशब्दस्तथेति चेत् । ३९. न समवायात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org