________________
९४
१६. न प्रकृतावपीति चेत् । १७. उक्तं समवाये पारदौर्बल्यम् ।
१८. तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् । १९. शब्दसामर्थ्याच्च ।
२०. लिङ्गदर्शनाच्च ।
२१. तत्राभावस्य हेतुत्वात्, गुणार्थे स्याददर्शनम् । २२. विधिरिति चेत् ।
२३. न वाक्यशेषत्वात् गुणार्थे च समाधानं नानात्वेनोपपद्यते । २४. येषां वाऽपरयोर्होमस्तेषां स्यादविरोधात् ।
२५. तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् ।
,
२६. लिङ्गाद्वा शेषहोमयोः ।
२७. प्रतिपत्ती तु ते भवतस्तस्मादतद्विकारत्वम् ।
२८. सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत, विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेयत्वात् वचनादतिदेशः स्यात् ।
॥ इति अष्टमाध्यायस्य चतुर्थः पादः अष्टमाध्यायश्च ॥ अथ नवमोऽध्यायः
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
प्रथमः पादः
१. यज्ञकर्म प्रधानं, तद्धि चोदनाभूतं, तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् ।
२. संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् ।
३. तेन त्वर्थेन यज्ञस्य संयोगाद् धर्मसम्बन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्,
"
संस्कारस्य तदर्थत्वात् ।
४. फलदेवतयोश्च ।
५. न चोदनातो हि ताद्गुण्यम् ।
६ देवता वा प्रयोजयेदतिथिवद् भोजनस्य तदर्थत्वात् ।
७.
आर्थपत्याच्च ।
८. ततश्च तेन सम्बन्धः ।
९. अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद् गुणत्वे देवताश्रुतिः । १०. अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् ।
११. द्रव्यसङ्ख्याहेतुसमुदायं वा श्रुतिसंयोगात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org