SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् २५. अपूर्वे च विकल्पः स्याद्यदि सङ्ख्याविधानम् । २६. ऋग्गुणत्वान्नेति चेत् । २७. तथा पूर्ववति स्यात् । २८. गुणावेशश्च सर्वत्र । २९. निष्पन्नग्रहणान्नेति चेत् । ३०. तथेहापि स्यात् । ३१. यदि वाऽविषये नियमः प्रकृत्युपबन्धाच्छब्देष्वपि प्रसिद्धः स्यात् । ३२. दृष्टः प्रयोग इति चेत् । ३३. तथा शरेष्वपि । ३४. भक्त्येति चेत् । ३५. तथेतरस्मिन् । ३६. अर्थस्य चासमाप्तत्वात् न तासामेकदेशे स्यात् । ॥ इति अष्टमाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः १. दर्विहोमो यज्ञाभिधानं होमसंयोगात् । २. स लौकिकानां स्यात् कर्तृस्तदाख्यत्वात् । ३. सर्वेषां वा दर्शनाद्वास्तुहोमे । ९३ ४. जुहोतिचोदनायां वा तत्संयोगात् । ५. द्रव्योपदेशाद्वा गुणाभिधानं स्यात् । ६. न लौकिकानामाचार ग्रहणत्वाच्छन्दवतां चान्यार्थविधानात् । ७. दर्शनाच्चान्यपात्रस्य । ८. तथाग्निहविषोः । ९. उक्तश्चार्थसम्बन्धः। १० तस्मिन् सोमः प्रवर्तेताव्यक्तत्वात् । ११. न वा स्वाहाकारेण संयोगाद्वषट्कारस्य च निर्देशात्तन्त्रे तेन विप्रतिषेधात् । १२. शब्दान्तरत्वात् । १३. लिङ्गदर्शनाच्च । १४. उत्तरार्थस्तु स्वाहाकारो यथा साप्तदस्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिलिङ्गदर्शनात् पशुवत् । १५. अनुत्तरार्थो वाऽर्थवत्त्वादानर्थक्याद्धि प्राथम्यस्योपरोधः स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy