________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३०. अहीनवचनाच्च । ३१. सत्रे वोपायिचोदनात् । ३२. सत्रलिङ्गञ्च दर्शयति ।
॥इति अष्टमाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. हविर्गणे परमुत्तरस्य देशसामान्यात् । २. देवतया वा नियम्येत शब्दवत्त्वादितरस्याश्रुतित्वात् । ३. गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् । ४. नानाहानि वा सङ्घातत्वात् प्रवृत्तिलिङ्गेन चोदनात् । ५. तथा चान्यार्थदर्शनम्। ६. कालाभ्यासे च बादरिः कर्मभेदात् । ७. तदावृत्तिं तु जैमिनिरह्नामप्रत्यक्षसंख्यत्वात् । ८. संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् । ९. अधिकाराद्वा प्रकृतिस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् । १०. गणादुपचयस्तत्प्रकृतित्वात् । ११. एकाहाता तेषां समत्वात् स्यात् । १२. गायत्रीषु प्रकृतीनामवच्छेदः प्रकृत्यधिकारात् संख्यात्वादग्निष्टोमवद
व्यतिरेकात्तदाख्यत्वम् । १३. तन्नित्यवच्च पृथक्सतीषु तद्वचनम् । १४. न विंशतौ दशेति चेत् । १५. एकसङ्ख्यमेव स्यात् । १६. गुणाद्वा द्रव्यशब्दः स्यादसर्वविषयत्वात्। १७. गोत्ववच्च समन्वयः । १८. सङ्ख्यायाश्च शब्दवत्त्वात् । १९. इतरस्याश्रुतित्वाच्च । २०. द्रव्यान्तरे निवेशादुक्थ्यलोपैर्विशिष्टं स्यात् । २१. अशास्त्रलक्षणत्वाच्च । २२. उत्पत्तिनामधेयत्वाद् भक्त्या पृथक्सतीषु स्यात् । २३. वचनमिति चेत् । २४. यावदुक्तम्।
Jain Education Hernational
For Personal & Private Use Only
www.jainelibrary.org