________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
द्वितीयः पादः १. वाजिनेषु सोमपूर्वत्वं सौत्रामण्यां च ग्रहेषु ताच्छब्द्यात् । २. अनुवषट्काराच्च । ३. समुपहूय भक्षणाच्च । ४. क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् । ५. हविषा वा नियम्येत तद्विकारत्वात् । ६. प्रशंसा सोमशब्दः। ७. वचनानीतराणि । ८. व्यपदेशश्च तद्वत् । ९. पशुपुरोडाशस्य च लिङ्गदर्शनम् । १०. पशुः पुरोडाशविकारः स्याद् देवतासामान्यात् । ११. प्रोक्षणाच्च। १२. पर्य्यग्निकरणाच्च । १३. सान्नाय्यं वा तत्प्रभवत्वात् । १४. तस्य च पात्रदर्शनात् । १५. दध्नः स्यान्मूर्तिसामान्यात् । १६. पयो वा कालसामान्यात् । १७. पश्वानन्तर्यात् । १८. द्रव्यत्वं चाविशिष्टम् । १९. आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् । २०. एकं वा चोदनैकत्वात् । २१. दधिसङ्घातसामान्यात् । २२. पयो वा तत्प्रधानत्वाल्लोकवद् दधनस्तदर्थत्वात् । २३. धर्मानुग्रहाच्च। २४. सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककात् । २५. अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्यशब्दत्वात् । २६. द्विरात्रादीनामैकादशरात्रादहीनत्वं यजतिचोदनात् । २७. त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् । २८. लिङ्गाच्च । २९. अन्यतरतोऽतिरात्रत्वात् पञ्चदशरात्रस्याहीनत्वं कुण्डपायिनामयनस्य च ___ तद्भूतेष्वहीनत्वस्य दर्शनात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org