________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वेदान्तदर्शनम्
३०. सर्वोपेता च तद्दर्शनात् । ३१. विकरणत्वान्नेति चेत्तदुक्तम् । ३२. न प्रयोजनवत्त्वात् ।
३३. लोकवत् तु लीलाकैवल्यम् । ३४. वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति । ३५. न कर्माविभागादिति चेन्न अनादित्वात् । ३६. उपपद्यते चाप्युपलभ्यते च ।
३७. सर्वधर्मोपपत्तेश्च ।
॥ इति वैयासिकब्रह्मसूत्रपाठे द्वितीयाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः
१. रचनानुपपत्तेश्च नानुमानम् । २. प्रवृत्तेश्च ।
३. पयोऽम्बुवच्चेत् तत्रापि । ४. व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ।
५. अन्यत्राभावाच्च न तृणादिवत् ।
६. अभ्युपगमेऽप्यर्थाभावात् । ७. पुरुषाश्मवदिति चेत् तथापि । ८. अङ्गित्वानुपपत्तेश्च ।
९. अन्यथानुमितौ च ज्ञशक्तिवियोगात् । १०. विप्रतिषेधाच्चासमञ्जसम् । ११. महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् । १२. उभयथापि न कर्मातस्तदभावः ।
१३. समवायाभ्युपगमाच्च साम्यादनवस्थिते: । १४. नित्यमेव च भावात् ।
१५. रूपादिमत्त्वाच्च विपर्ययो दर्शनात् । १६. उभयथा च दोषात् ।
१७. अपरिग्रहाच्चात्यन्तमनपेक्षा ।
१८. समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।
१९. इतरेतरप्रत्ययत्वादिति चेन्न उत्पत्तिमात्रनिमित्तत्वात् ।
२०. उत्तरोत्पादे च पूर्वनिरोधात् ।
Jain Education International
For Personal & Private Use Only
१४५
www.jainelibrary.org