________________
१४४ / जैनपरम्परा और यापनीयसंघ / खण्ड २
अ०८/प्र०७ मतिश्रुतावधिनेत्रधारकाणां च योगिनाम्। गृहस्थधर्मव्याख्यानं कुर्वतां च विमानिनाम्॥ ६३॥ तेषां नैव ह्यहो मूर्खा दोषो दृष्टोकिमप्यहो। अभिषेकादिसर्वासु क्रियासु विदितेषु वै॥ ६४॥ भवतां नैव भो मूढा मतिज्ञानादिसद्गुणाः। चाल्यमात्रापि दृश्यन्ते सर्वद्वापरनाशकाः॥ ६५॥ वक्तव्यं केन ज्ञानेन भवद्भिः मतिवर्जितैः। किं दृष्टश्च प्रदोषो वै अभिषेकादिषु खलु॥ ६६॥ दोषः किंस्यात्प्रभोः पादलेपनेचन्दनादिभिः। दीपस्योद्योतने किं च जिनाङ्कयक्षपूजने ॥ ६७॥ धूपोत्करस्य दहने निशायाः पूजने तथा। जिनात्तपुरुषाणां च वात्सल्ये मार्गवर्द्धके॥ ६८॥ पुष्पोत्करैः जिनेन्द्रस्य पादाम्बुजपूजने खलु। केलाम्रगोस्तनी चान्यत्फलोत्करैः प्रपूजने॥ ६९ ॥ इत्याद्या याः क्रियाः सर्वा जिननाथेन वर्णिताः। आगमे तत् भवद्भिश्च त्यक्ता भो मूढबुद्धितः॥ ७० ॥ अतः यूयं जिनेन्द्रस्य आज्ञानाश्च कुमार्गगाः। न श्राद्धा निःफला जाता जिनाज्ञालोपतः खलु॥ ७१॥ यत्राज्ञा न च तत्रापि धर्मलेशोऽपि नास्ति वै। अतो यूयं कुश्रद्धायाः पालकाश्च न संशयः॥ ७२ ॥ यदि स्यात् दृढश्रद्धा वै भवतां तद्वचनस्य च। तदा चंगीकुरुध्वं भो स्नपनादिसत्क्रियाम्॥ ७३ ॥ आख्यापयथ मूढाः कस्याज्ञया स्नपनादिकाः। यूयं त्यक्ताः क्रिया मुख्या ग्रन्थपक्षं प्रदWथ॥ ७४ ।। ग्रन्थानुसारतः त्यक्ताः वदध्वं च क्रियाः खलाः। इमे यूयं तथा किं च स्वमतेः सारतः खलु ॥ ७५ ॥ जिनानन-समुत्पन्न-ग्रन्थाज्ञां भुवने वये। देवेन्द्रा वा नरेन्द्राश्च नागेन्द्राः खचरेश्वराः॥ ७६॥ ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org